संज्ञासूत्र - परिचय: |
- લિંક મેળવો
- X
- ઇમેઇલ
- અન્ય ઍપ
एकदेशस्थिता शास्त्रभवने याति दीपताम् ।
परितो व्यापृतां भाषां परिभाषा प्रचक्षते ॥
(०१)सवर्णसंज्ञा
तुल्यास्यप्रयत्नं सवर्णम्॥ 1.1.9॥
ताल्वादि स्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् ।
अकुहविसर्जनीयानां कण्ठः।
इचुयशानां तालुः ।
ऋटुरषाणां मूर्धा ।
लृतुलसानां दन्ताः।
उपूपध्मानीयानामोष्ठौ ।
ञमङणनानां नासिका च ।
एदैतोः कण्ठतालुः।
ओदौतोः कण्ठोष्ठम्।
वकारस्य दन्तोष्ठम् ।
जिह्वामूलीयस्य जिह्वामूलम् ।
नासिकाSनुस्वारस्य , इति स्थानानि ।
यत्नो द्विधा । आभ्यन्तरो बाह्यश्च । तत्राद्यश्चतुर्धा - स्पृष्ट ईषत्स्पृष्ट-विवृत-संवृतभेदात् । तत्र
स्पृष्टं प्रयत्नं स्पर्शनाम् ।
ईषत्स्पृष्टमन्तस्थानाम् ।
विवृतमूष्मणां स्वराणाञ्च ।
ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायान्तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् ।
(०२)वृद्धिसंज्ञा
वृद्धिरादैच् ॥ 1.1.1॥
आदैच् वृद्धिसंज्ञः स्यात् ।
(०३)गुणसंज्ञा
अदेङ् गुणः ॥ 1.1.2॥
अत् एङ् च गुणसंज्ञः स्यात् । अ, ए, ओ इत्येताः गुणसंज्ञकाः भवन्ति ।
(०४)गतिसंज्ञा
प्रादयः ॥ 1.5.58॥
अद्रव्यार्थाः प्रादयस्तथा ।
उपसर्गाः क्रियायोगे ॥ 1.4.59 ॥
गतिश्च ॥ 1.4.60॥
प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः । प्र, परा, अप, सम, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप, एते प्रादय: उपसर्गा: क्रियायोगे गतिसंज्ञकाः भवन्ति ।
(०५) विभाषासंज्ञा
न वेति विभाषा ॥ 1.1.44॥
निषेधविकल्पयोर्विभाषा ।
(०६)संहितासंज्ञा
परः सन्निकर्षः संहिता ॥ 1.4.109 ॥
वर्णानामतिशयित: सन्निधिः संहिता-संज्ञा स्यात् ।
(०६) पदसंज्ञा
सुप्तिङन्तं पदम् ॥ 1.4.14॥
सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ।
(०७)संयोगसंज्ञा
हलोऽनन्तराः संयोगः ॥ 1.1.7 ॥
अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ।
(०८)प्रातिपदिकसंज्ञा
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ 1.2.45॥
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्।
(०९)नदीसंज्ञा
यू स्त्र्याख्यौ नदी ॥ 1.4.3॥
ईदूद्न्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः।
(१०) घिसंज्ञा
शेषो घ्यसखि ॥ 1.4.7 ॥
शेष इति स्पष्टार्थम् । अनदी संज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घि संज्ञम् ।
(११)उपधासंज्ञा
अलोन्त्यात्पूर्व उपधा ॥ 1.1.65॥
अन्त्यादलः पूर्वो वर्ण उपधा संज्ञः ।
(१२) अपृक्तसंज्ञा
अपृक्त एकाल् प्रत्ययः॥ 1.2.41॥
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ।
(१३)टिसंज्ञा
अचोऽन्त्यादि टि॥ 1.1.64॥
अचां मध्ये योऽन्त्यः, स आदिर्यस्य तट्टिसंज्ञं स्यात् ।
(१४)प्रगृह्यसंज्ञा
ईदूदेद्विवचनं प्रगृह्यम् ॥ 1.1.11॥
ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू ।
(१५)सर्वनामस्थानसंज्ञा
शि सर्वनामस्थानम्॥ 1.4.42॥
शि इत्येतद् उक्तसंज्ञं स्यात् ।
(१६) निष्ठासंज्ञा
क्तक्तवतू निष्ठा ॥ 1.1.26॥
एतौ निष्ठासंज्ञौ स्तः ।
(१७) भसंज्ञा
यचि भम् ॥1.4.18॥
असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति ।
(१८)अपृक्तसंज्ञा
अपृक्त एकाल् प्रत्यय: ॥1.2.41॥
(१९)सर्वनामसंज्ञा
सर्वादिनि सर्वनामानि ॥1.1.27॥
क्विझ-१ कालीदास विषयक वाचन साहित्य।
क्विझ-२ वेद विषयक वाचन साहित्य ।
क्विझ-३ ऋग्वेद विषयक वाचन साहित्य ।
- લિંક મેળવો
- X
- ઇમેઇલ
- અન્ય ઍપ
ટિપ્પણીઓ